सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

निरुक्तम् शिक्षा, व्याकरणं, छन्द:, निरुक्तं, ज्योतिषं, कल्प: इति वेदस्य षडङ्गानि। तत्र ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते इति कथनात् निरुक्तस्य प्रामुख्यं ज्ञायते।निघण्ट्वाख्यस्य वैदिककोशस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदांगम्। निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति। अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति। निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति।

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥२॥
(अधिकवाचनाय »)



Image आधुनिकलेखः

Image
वाताटमयम् आकाशम्

अन्ताराष्ट्रियवाताटोत्सवः मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति। यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते। सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते। अतः मकरसङ्क्रान्तिः इति नाम। मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति। अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः। प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति। अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम्। अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति। स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति। उत्सवदिने आकाशे सर्वत्र वाताटाः एव दृश्यन्ते। तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति। (अधिकवाचनाय »)




Image ज्ञायते किं भवता?

नव रसाः - नवभावाः
शृङ्गारः - रतिः
वीरः - उत्साहः
करुणः - शोकः
अद्भुतः - विस्मयः
हास्यः - हासः
भयानकः - भयम्
बीभत्सः - जुगुप्सा
रौद्रः - क्रोधः
शान्तः - शमः

अयं च श्लोक: -

शृङ्गार-वीर-करुणाद्भुत-हास्य-भयानकाः ।
बीभत्सरौद्रौ शान्तश्च रसा: नव प्रकीर्तिताः ॥



Image वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

Image अद्यतनं सुभाषितम्

पिबन्ति नद्यः स्वयमेव नाम्भ:

स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतयः ॥

सु.भा. - सज्जनप्रशंसा (५१/१७०)

नदीषु जलं भवति। परन्तु नद्यः स्वयमेव तत् जलं कदापि न पिबन्ति। वृक्षेषु फलानि भवन्ति। ते वृक्षाः अपि स्वयमेव तानि फलानि कदापि न खादन्ति। जलवर्षणेन सस्यानि यथा सम्यक् प्रवृद्धानि भवेयुः तथा कुर्वन्ति मेघाः। परन्तु ते स्वेन वर्धितानि सस्यानि स्वयमेव न खादन्ति। एवमेव सज्जनाः स्वसमीपे विद्यमानानां सम्पत्तीनाम् उपयोगं स्वयं न कुर्वन्ति। अपि तु परोपकारार्थमेव तासां विनियोगं कुर्वन्ति।


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्