मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,४९१ लेखाः सन्ति।
|
तन्मे मनः शिवसङ्कल्पमस्तु ॥
|
ब्राह्मणम् मेदिनीकोशानुसारं वेदभागसूचकोऽयं ब्राह्मणशब्दः नपुंसकलिंगे प्रयुज्यते। यथोक्तं –“ ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम्” इति। भट्टभास्करमतानुसारं- “ ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः” इति। वाचस्पतिमिश्रः लिखति-
नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।
प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ यज्ञकर्मकाण्डस्य विस्तृतव्याख्या येन क्रियते सः ब्राह्मणग्रन्थ इत्युच्यते। ब्राह्मणग्रन्थः यज्ञानां, वैज्ञानिकाध्यात्मिकाधिभौतिकमीमांसानां प्रतिपादकः विश्वकोश इति वलदेवोपाध्यायेनोक्तम्। सायणमतानुसारं यः परम्परानुसारं मन्त्रः न भवति स ब्राह्मणः। शतपथब्राह्मणानुसारं – ब्रह्म वै मन्त्रः। (अधिकवाचनाय »)

अन्ताराष्ट्रियवाताटोत्सवः मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । । (अधिकवाचनाय »)
- केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
- कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
- हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
- वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
सहस्राधिकाः धेनवः सन्ति चेत् अपि वत्सः तासु धेनुषु स्वमातुः एव समीपं गत्वा तामेव अनुसरति। तथा एव अस्माभिः पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव। |