मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,४९१ लेखाः सन्ति।
|
भद्रं कर्णेभिः शृणुयाम ॥
|

ज्योतिषशास्त्रम् यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥ इदं कालविज्ञापकं शास्त्रम्। मुहूर्त्तं शोधयित्वा क्रियमाणा यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्त्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्यौतिषशास्रस्य वेदाङ्गत्वं स्वीकृतम्। उक्तञ्चायमर्थ आर्चज्योतिषे, यथा –
- वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः।
- तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ (आर्चज्यौतिषम् ३६)
चतुर्णामपि वेदानां पृथक् पृथक् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते। (अधिकवाचनाय »)

भारतस्य राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः। राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति। भारतीयशस्त्रसेनानां (भूसेना-नौसेना-वायुसेनानां) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव। देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति। तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति। एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति। एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत्। (अधिकवाचनाय »)
- केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
- कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
- हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
- वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः।
मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति। तस्य अन्यस्मात् कस्मात् अपि भयं न भवति। यत् भावयति तत् भवति। वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च। |