सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

Image
ऋग्वेदस्य मातृका

वेदः संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। भारते धर्मव्यवस्था वेदायत्तैव। वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया। श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी। न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि। प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। चत्वारः वेदाः भवन्ति। ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति। एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागः अस्ति। वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति। तानि च सूक्तानि प्रतिभानवतां ऋषीणां योगदानानि भवन्ति। एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति। (अधिकवाचनाय »)



Image आधुनिकलेखः

Image
बेङ्गळूरु

"बेङ्गलूरु"(Bangalore) नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति। बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते। एतत् मण्डलमपि। बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति। २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम्। एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम्। अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति। बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति। बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति। (अधिकवाचनाय »)




Image ज्ञायते किं भवता?

संस्कृतवाक्यानि प्रतीकेषु उपयुक्तानि -

सत्यमेव जयते - भारतसर्वकारः
नभःस्पृशं दीप्तम् - भारतीयवायुदलम्
योगक्षेमं वहाम्यहम् - भारतीयजीवविमानिगमः
शं नो वरुणः - भारतीयजलसेना
बहुजनहिताय - आकाशवाणी
न हि ज्ञानेन सदृशम् - मैसूरुविश्वविद्यालयः
ज्ञानं विज्ञानसहितम् - बेङ्गलूरुविश्वविद्यालयः
योऽनूचान: स नो महान् - राष्ट्रियसंस्कृतसंस्थानम्
तन्नो हंसः प्रचोदयात् - रामकृष्ण मिशन्
सत्यं शिवं सुन्दरम् - प्रसारभारती
तत्त्वं पूषन्नपावृणु - केन्द्रियविद्यालयसङ्घटनम्



Image वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

Image अद्यतनं सुभाषितम्

यो यस्य चित्ते वसति न सदूरे कदाचन।

खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥

गर्गसंहिता माधुर्यखण्डः १/११

यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति। यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति )।


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्