सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

Image
न्यायशास्त्रपण्डितः चैतन्यमहाप्रभुः

न्यायदर्शनम् भारतीयदर्शनेषु अन्यतमम्। वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते। प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति। काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान्। स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपदितवान्। फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगी अस्ति। प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते। (अधिकवाचनाय »)



Image आधुनिकलेखः

योगः कर्मसु कौशलम्
योगः कर्मसु कौशलम्

अन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते। योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति। योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते। भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति। परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम्। अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति। तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता। अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते। (अधिकवाचनाय »)




Image वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

Image अद्यतनं सुभाषितम्

अनेकशास्त्रं बहु वेदितव्यम्

अल्पश्च कालो बहवश्च विघ्नाः।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥

सु.भा. - सामान्यनीतिः (१८०/८७८)

जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम्। तद्विषये विलम्बः न करणीयः। यतः कालः बहु अल्पः। अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति। यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः। जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः।


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्